नवा दृष्टिः नवा सृष्टिः!

spf

विद्यालयेषु ये छात्राः संस्कृतभाषां स्वीकुर्वन्ति ते एव अनन्तरं संस्कृतस्य BA-MA-शास्त्रि-आचार्यादिषु कक्ष्यासु छात्राः भविष्यन्ति। अतः विद्यालयस्तरे पाठनम् उत्तमं भवति चेदेव पश्चात् स्नातकादिकक्ष्यासु ते सम्यक् पठितुं शक्नुयुः। उत्तमं पाठनं नाम किम्? विद्यालयस्तरे छात्राणां संस्कृतभाषायाः सम्यक् अभ्यासः भवति चेत् अर्थात् छात्राः संस्कृतभाषया सरलतया शुद्धतया च वक्तुं लेखितुं च समर्थाः भवन्ति चेत् ते भाषाप्रयोगे अपेक्षितं न्यूनतमस्तरं प्राप्तवन्तः इति वक्तुं शक्यते। तदा ते स्नातकस्तरे काव्यव्याकरणयोः अभ्यासं शास्त्रस्य परिचयं च, आचार्यस्तरे शास्त्रस्य प्रौढग्रन्थानां अध्ययनं चेति कर्तुं समर्थाः भवेयुः। इदानीं विद्यालयस्तरे छात्राणाम् अपेक्षितम् आधारभूतं शिक्षणं न भवति, अतः वयम् उच्चशिक्षास्तरे अधिकं पाठयितुं न शक्नुमः इति प्राध्यापकानां कथनं भवति। वस्तुतः अद्यावधि विद्यालयसमाप्तिं महाविद्यालयसमाप्तिं विश्वविद्यालयसमाप्तिं च यावत् छात्रस्य संस्कृतभाषास्तरः कः कः भवेत् इति स्तराः मापदण्डाः च नैव निश्चिताः। अतः विद्यालयीयशिक्षणस्य समाप्तिं यावत् छात्रस्य संस्कृतभाषया सामान्यव्यवहारस्य सामर्थ्यं भवेत् इति सर्वेषां समाना काचित् नवा दृष्टिः भवेत्।

विद्यालयेषु समस्याः काः? पाठ्यपुस्तकानि अनुवादविधिना अन्यभाषया पाठनाय रचितानि, शिक्षकाणां भाषणाभ्यासः नास्ति, अन्यविषयस्य शिक्षकः संस्कृतं पाठयति, सप्ताहे 2-3 अवधयः एव भवन्ति, छात्राणां रुचिः नास्ति इति एताः पञ्च प्रधानतया श्रूयमाणाः समस्याः। तथा तु समस्यानां सूची दीर्घा अस्ति। ताः समस्याः वास्तविक्यः एव। तासां समस्यानां परिहारोपायाः अपि सन्ति। तान् वयं लेखान्तरे पठेम। अत्र तु स्थलस्य अल्पत्वात् मूलभूतं विषयं केवलं चर्चयामः। सः विषयः अस्ति विद्यालयस्तरे संस्कृतभाषायाः शिक्षणस्य सम्बन्धे अस्माकं नवा दृष्टिः कीदृशी भवेत् इति।

पाठ्यक्रमः पाठ्यपुस्तकं शिक्षकप्रशिक्षणं मूल्याङ्कनम् इति एते चत्वारः विषयाः राज्यस्य सर्वेषां संस्कृतशिक्षकाणां सामूहिकेच्छाशक्तेः अधीनाः सन्ति - 70% तः 80% यावत्। पाठनविधिः प्रत्यक्षपाठनम् इति विषयद्वयं 90% यावत् वैयक्तिकरूपेण प्रत्येकं संस्कृतशिक्षकस्य अधीनम् अस्ति। आहत्य एतेषु षट्सु अपि विषयेषु चिन्तनस्य निर्णयस्य क्रियान्वयनस्य च उत्तरदायित्वं संस्कृतशिक्षकाणामेव। सर्वकारीया भाषानीतिः सप्ताहे विद्यमानाः कालावधयः इत्यादिषु येषु प्रकृतं शिक्षकाणां वचनस्य प्रभावः न भवति तेषु विषयेषु शक्तिव्ययापेक्षया यत्र अस्माकं प्रभावः अबाधितः अपारः च अस्ति तत्र अर्थात् पाठनविधौ प्रत्यक्षपाठने च वयं संस्कृतेन पाठनाय विविधानां नूतनानां प्रयोगाणां प्रयत्नानां वा प्रारम्भं तु कुर्याम इति संस्कृतोन्नयनाय बद्धकटीनां शिक्षकाणां नवा दृष्टिः भवेत्।

विचारार्थं कश्चन विषयः अत्र उपस्थाप्यते। इदानीं तु माध्यमिकस्तरे संस्कृतशिक्षणस्य प्रारम्भः सन्धिसमासादीनां पाठनेन भवति। सन्धिसमासादीनां ज्ञानं तु काव्याध्ययनाय शास्त्राध्ययनाय च आवश्यकम्। न तु भाषया व्यवहाराय। तेषां पाठनं स्नातकस्तरे भवितुम् अर्हति। भाषया विविधकार्याणि करणीयानि चेत् तदर्थम् अपेक्षितवाक्यानां प्रयोगाय कारकविभक्त्यादीनां, प्रमुख-परिमित-शब्द-धातु-रूपाणां, विशेषणविशेष्यसम्बन्धानां कर्तृकर्मभाववाच्यानां केषाञ्चन कृत्प्रत्ययानां च ज्ञानं पर्याप्तं भवति। तैः पदैः युक्तानां वाक्यानां प्रासङ्गिकसंभाषणानां द्वारा अभ्यासः कारणीयः स्यात्। यः कश्चन भाषागतः अंशः किमर्थं पाठनीयः इति विषये एव उद्देशगता अस्पष्टता अस्ति शिक्षकाणाम् अस्माकम्। कथं पाठनीयम् इति विषये तु अस्माकं चिन्तनन्यूनता अस्ति एव। संस्कृतजगति अद्य प्राथमिकस्तरतः विश्वविद्यालयस्तरपर्यन्तं किं पाठनीयम् इति एकः एव प्रश्नः सर्वाधिकारी जातः! अतः किमर्थं कथं किम् इति विषये अस्माकं किञ्चित् नवं चिन्तनं काचित् नवा दृष्टिः च अपेक्षिता।

कथं पाठनीयम् इत्यत्र बहवः विषयाः सन्ति। व्याकरणेन भाषा पाठनीया अथवा भाषया व्याकरणं पाठनीयम्? नियमैः उदाहरणानि शिक्षणीयानि उत उदाहरणैः नियमः शिक्षणीयः? ध्वनिप्रधाना भाषा उत लिपिप्रधाना? प्रथमं भाषाभ्यासः उत तद्विना साक्षात् साहित्यस्य शास्त्रस्य वा अध्ययनम्? वर्तमानया वैदेशिक्या आङ्ग्लपद्धत्या पाठनीयम् उत भारतीयपद्धत्या? एतादृशाः बहवः प्रश्नाः सन्ति। तेषाम् उत्तरानुगुणं पाठनविधिः भवति। विषयबोधने भाषाभ्यासे च बहवः भेदाः सन्ति।
इतिहास-विज्ञान-गणित-व्याकरण-काव्य-शास्त्रादिविषयाणां बोधनं क्रियते। भाषायाः अभ्यासः कार्यते। क्रियते कार्यते इत्यनयोः अपि भेदः अस्ति। प्रथमं शिक्षककेन्द्रितं चेत् द्वितीयं छात्रकेन्द्रितम्। इदानीं तु विद्यालयेषु संस्कृतविषयस्य बोधनात्मकरूपेण पाठः क्रियते। आवश्यकता अस्ति संस्कृतस्य भाषारूपेण अभ्यासकारणस्य। तदर्थम् आवश्यकता अस्ति रूढिङ्गतायाः सार्धशतस्य वर्षाणाम् अस्माकं दृष्ट्याः परिवर्तनस्य। किञ्च सुलभतया अङ्कान् प्राप्तुं छात्राः संस्कृतं स्वीकुर्वन्ति इति स्थाने शिक्षकाणां पाठनस्य आकर्षकताकारणेन संस्कृतपठनाय आगच्छन्ति इति चित्रपरिवर्तनं करणीयम् इति अस्माकं नवा दृष्टिः भवेत्।

काव्यं व्याकरणं शास्त्रम् इति सर्वं साध्यम्। परं भाषा साधनं तन्नाम करणम्। अतः एव संस्कृतेन संस्कृतभाषया इति करणे तृतीया विभक्तिः। संस्कृतेन वदति, संस्कृतेन लिखति, संस्कृतेन पृच्छति, संस्कृतेन वर्णयति, संस्कृतेन सूचयति, संस्कृतेन विवृणोति, संस्कृतेन क्रयणं करोति, संस्कृतेन आह्वयति, संस्कृतेन क्रीडति इति एवं संस्कृतेन किं किं करोति तत्सर्वं कथं करोति इति पाठयेम। भाषापाठनं नाम तत्। पाठनस्य केन्द्रबिन्दुः भाषया अभिव्यक्तिः भवेत्। अतः एतदनुगुणं प्रतिराज्यं पाठ्यपुस्तकानां परिवर्तनं कारणीयम्। तदर्थं प्रतिराज्यं संस्कृतशिक्षकाणां कार्ययोजना अग्रेसरत्वं च भवेत्। तस्मिन् कार्ये समितौ सदस्यत्वं नेतृत्वं च विद्यालयीयशिक्षकाणाम् एव भवेत् यतः तेषाम् एव वास्तविकक्षेत्रस्य समस्याज्ञानं पाठनानुभवः च भवति, न तु विद्यालयस्तरे अपाठितवतां महाविद्यालय-विश्वविद्यालय-प्राध्यापकानाम्। पाठ्यक्रमे पाठ्यपुस्तके पाठनविधौ प्रत्यक्षपाठने मूल्याङ्कनविधौ शिक्षकेषु शिक्षकप्रशिक्षणे च नवा दृष्टिः आवश्यकी। पराधीनविषयेभ्यः स्वाधीनविषयेषु, विषयबोधनात् भाषाभ्यासे, किम् इत्यस्मात् किमर्थं कथम् इत्यनयोः, अन्यभाषया अनुवादात् संस्कृतभाषया अभिव्यक्तौ, साहित्यपाठात् सरलमानकसंस्कृतपाठे च अस्माकं पाञ्चशैक्षिकं दृष्टिकेन्द्रपरिवर्तनम्(Focus Shift) आवश्यकम्। तदर्थं सर्वेषाम् उत्तरदायिनाम्(Stake Holders) एकसूत्रता एकस्यां दिशि प्रयत्नः च आवश्यकः इत्यपि दृष्टिः भवेत्।

परिवर्तनं कर्तुं परिवर्तनस्य समग्रस्य अधिगमनम् आवश्यकम्। यथास्थितितृप्ताः अक्लेशसहाः च जनाः परिवर्तनाय असज्जमनस्काः, अज्ञानवशात् मनोग्रन्थिबद्धाः च भवितुम् अर्हन्ति। अतः शैक्षिकपरिवर्तनात् पूर्वं, परिवर्तनप्रक्रियामध्ये, तदनन्तरं चेति वारं वारं शिक्षकप्रशिक्षणम् अनिवार्यम्। तस्मिन् शिक्षकप्रशिक्षणे अपि नवा दृष्टिः आवश्यकी।

अद्य विद्यालयस्तरे पञ्चकोटिपरिमिताः छात्राः संस्कृतं पठन्ति। ते तु शिक्षकस्य मुखात् व्यवह्रियमाणां संभाष्यमाणां संस्कृतभाषां न शृण्वन्ति न वा पश्यन्ति इति कारणेन ते संस्कृतम् अव्यावहारिकम्, भाषितभाषा नैव, कठिनम् इत्यादिकं चित्रं मनसि कृत्वा समाजं प्रविशन्ति। ते सर्वे कतिचन वर्षाणि अस्माकं समीपे भविष्यन्ति। चिन्त्यतां कल्पना क्रियतां च यत् वयं सर्वे संस्कृतशिक्षकाः अग्रिमेषु वर्षेषु नवाचारैः नवोपायैः च तान् सर्वान् छात्रान् संस्कृतेन भाषणं लेखनं च पाठयेम इति। तदा कीदृशी काचित् अद्भुता सुन्दरी च सृष्टिः भवेत् इति। पञ्चकोटिः छात्राः शिक्षकाः च संस्कृतेन आनन्देन संलपेयुः इति। ते सर्वे वर्तमानविषयेषु आधुनिकविषयेषु च संस्कृतेन भाषणस्य, संभाषणस्य, संलापस्य, कथाकथनस्य, क्रीडनस्य, गानस्य, हसनस्य च स्वस्य Video चित्राणि ध्वनिमुद्रिकाः च Social Media मध्ये स्थापनं कुर्युः इति। तदा संस्कृतस्य चित्रम् एव परिवृत्तं भवेत्। एतदेव मनोगतं चित्रं वयम् अक्षिगतं कुर्याम। अगमाः जनाः कुत्र वा गच्छेयुः किं वा प्राप्नुयुः? अतः वयम् अविलम्बं समारब्धक्रियाः स्याम। एवं विचारः सङ्कल्पः परिश्रमः च यदि अस्माकं स्यात् तर्हि नवनिर्माणं निश्चप्रचम्। यथा दृष्टिः तथा सृष्टिः खलु। अतः नवा दृष्टिः चेत् नवा सृष्टिः स्यादेव!


By :- Chamu Krishna Shastry | Views:- 5122 | 27-06-2020 04:42 PM