अविलम्बेन करणीयम्

संस्कृतस्य सर्वेषां विश्वविद्यालयानां महाविद्यालयानां पाठशालानां च सर्वः अपि छात्रः संस्कृतेन वदेत् लिखेत् च इति अपेक्षा तु न केवलं तस्य छात्रस्य अपि तु सर्वेषां संस्कृतानुरागिणाम् अपि भवति। परन्तु तद् न जायमानम् अस्ति। सर्वः संस्कृतशिक्षकः अपि संस्कृतेन सुष्ठु वदेत् इति अपेक्षा अस्ति। परं तदपि न जायमानम् अस्ति। किमर्थम् इत्युक्ते वर्तमानः कोपि भाषाभ्यासपाठ्यक्रमः तदेकलक्ष्यकेन्द्रितः नास्ति। न वा अद्यावधि कुत्रापि तदेकपरिणामकेन्द्रितस्य सावधिकस्य अभिव्यक्तिप्रधानस्य सम्पूर्णस्य अर्थात् उद्दिष्टफलान्तस्य च पाठ्यक्रमस्य निर्माणस्य पाठनप्रयोगस्य वा प्रयत्नः न जातः इति भाति। सा एका न्यूनता एव सर्वस्याः समस्यायाः मूलम् अस्ति।

अतः करणीयस्य कार्यस्य उद्देश्यस्य स्पष्टं निरूपणं करणीयम्। तद् इत्थम् - “संपूर्णे भारते प्रत्येकं संस्कृतच्छात्रः संस्कृतेन सरलतया धाराप्रवाहितया शुद्धतया च भाषणे लेखने च समर्थः भवेत् इत्येदर्थं छात्राणां शिक्षणाय अपेक्षितायाः नूतनायाः भाषाभ्याससामग्र्याः सरलमानकसंस्कृतेन निर्माणम्” इति। एतत् कार्यम् इदानीम् अविलम्बेन करणीयम्।

अत्र अहं भवताम् अवधानम् “असाध्यं साध्यं कुर्याम” इति मम पूर्वतनं लेखनं प्रति आक्रष्टुम् इच्छामि। सः लेखः यैः न पठितः ते कृपया https://www.chamuks.in/article_view?chamuks=VFVSUk5FNUVaekpQUkdzeFRYcE5QUT09 इत्यत्र पठेयुः इति मम प्रार्थना। तस्मिन् लेखने अपि “लक्ष्यं भवेत् आप्राक्शास्त्रि शोधस्तरं यावत् विद्यमानेषु ५०,००० छात्रेषु प्रत्येकं छात्रः एकवर्षाभ्यन्तरे संस्कृतभाषया सरलतया, शुद्धतया, धाराप्रवाहितया च भाषितुं लेखितुं च समर्थः भवेत्” इति विषये महान् आग्रहः दर्शितः। तद् लक्ष्यम् अंशतः अपि साधनीयं चेत् इदानीं शैक्षिकवर्षारम्भे एव भाषाभ्यासकारिण्याः नूतनपाठनसामग्र्याः विशेषतया निर्माणं करणीयम्। तत् सामग्रीनिर्माणं साधयितुम् इदानीं युद्धसज्जतारीत्या व्यूहरचनां कृत्वा कार्यकरणस्य आवश्यकता अस्ति।

कदाचित् भवतः एतत् कार्यं कर्तुम् इच्छा स्यात्, परन्तु कथं कर्तव्यम्, कथम् आरब्धव्यम् इति कल्पना न स्यात्। अतः भवतः साहाय्यार्थं कतिचन उपायाः अत्र सूच्यन्ते। व्यवहाराय अपेक्षिता न्यूनतमा पदावली, न्यूनतमाः वाक्यरचनाः निश्चेतव्याः, न्यूनतमाः वाक्यनियमाः संग्रहणीयाः, सामान्यदोषस्थानानि अभिज्ञातव्यानि च। तेषां पाठनाय अभ्यासाय च प्रसङ्गाः चेतव्याः, मौखिकलैखिककार्याणि च चिन्तनीयानि। एतान् विषयान् स्वयं चिन्तयित्वा संपादयति चेत् भवतः अधिकः लाभः भविष्यति, कार्यम् अपि योग्यतमं भविष्यति। परन्तु तदर्थं समयः नास्ति अवधानम् अपि नास्ति चेत् सिद्धमेव किञ्चित् आवश्यकं चेत् तदपि सूच्यते। मया लिखिते ‘संस्कृतकक्ष्या’ इति पुस्तके आधारभूतं संस् ...


Read more

पञ्चसप्ततिः (७५)

भारतदेशस्य स्वतन्त्रतायाः अमृतमहोत्सवस्य (पञ्चसप्ततितमस्य वर्षस्य) आचरणम् आरब्धम्। एषः कार्यक्रमः पञ्चसप्ततिसप्ताहान् य़ावत् आचरिष्यते। किं संस्कृतज्ञाः वयम् एतम् अवसरत्वेन परिवर्तयितुं शक्नुयाम ? संस्कृतप्रचारोत्सुकानाम् अस्माकं प्रत्येकं प्रसङ्गे नूतनतया चिन्तनस्य अभ्यासः। अतः अत्र अहं महत् किमपि लक्ष्यम् उपस्थापयामि। एतस्य लेखस्य पठनसमये एतत् सर्वं कर्तुं कथं शक्यम् इति कदाचित् भासेत। तथापि कश्चन अत्र एकम् अपि अंशम् करिष्यति चेत् अपि महत् इति मन्ये। किञ्च अद्य कदाचित् कोपि न कुर्यात् चेदपि अद्य उप्यमानं विचारसरणिबीजं दशवर्षाणाम् अनन्तरम् अङ्कुरितं भविष्यति चेदपि तत् महत् एव इति भावयामि।

स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृतस्य पञ्चसप्ततिः कार्याणि करणीयानि। तानि संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं शक्यन्ते। संस्थया नाम संस्कृतविश्वविद्यालयेन, संस्कृतमहाविद्यालयेन, संस्कृतप्रचारसङ्घटनेन, संस्कृतप्रचारपरिषदा, संस्कृतविभागेन, संस्कृतानुरागिसंस्थया वा। जनेन इत्यस्य अभिप्रायः भवति केनचित् एकेन जनेन स्वतन्त्रतया अथवा स्वस्य मित्रैः सह मिलित्वा इति। कतिचन कार्याणि संस्थया अपि, जनेन अपि इति सर्वैः कर्तुं शक्यानि स्युः। अतः यथायोग्यं भावः गृह्यताम्।

यानि कार्याणि चिन्त्येरन् तेषां करणस्य उद्देश्यानि अस्माकं निर्दिष्टानि स्पष्टानि च स्युः। तेषां करणेन संस्कृतशिक्षायाः संस्कृतप्रचारस्य वा वर्तमानानां प्रधानभूतानाम् आवश्यकतानां पूर्त्यर्थं यत्किञ्चित् साहाय्यं भवेत्। एतानि कार्याणि साधयितुं सर्वकारस्य धनसाहाय्यं भवेत् इति मा चिन्त्यताम्। तेन कदाचित् निराशता भवेत्। अतः अस्मद्बलेन, समाजबलेन, दानिनां बलेन वा एव एतानि साधनीयानि इति अस्माकं पूर्वमेव स्पष्टता अस्ति चेत् उत्तमम्।

संस्थया कर्तुं योग्यानि कार्याणि – १) अन्यभाषाभ्यः सरलमानकसंस्कृतेन अनूदितानां पञ्चसप्ततेः कथापुस्तकानां प्रकाशनम् २) वर्तमानजगतः पञ्चसप्ततेः आधुनिकविषयाणां पुस्तकानां सरलमानकसंस्कृतेन अनुवादः स्वतन्त्रलेखनं वा प्रकाशनं च ३) पञ्चसप्ततेः ग्रन्थानां पृथक्तया प्रमाणपत्रीयपाठ्यक्रमत्वेन सरलमानकसंस्कृतमाध्यमेन षाण्मासिकं पाठनम् ४) चितानां पञ्चसप्ततेः संस्कृतोच्चशिक्षायाः छात्राणां प्रशिक्षुता(Internship)योजनां निर्माय Samskrit Knowledge Systems विषयेषु उन्नतशिक्षणसंस्थानेषु कार्यं कर्तुं तेषां प्रेषणस्य योजना ५) पञ्चसप्तत्यां स्थानेषु सम्भाषणशिबिराणाम् आयोजनम् ६) पञ्चसप्ततेः संस्कृतबालकेन्द्राणाम् सञ्चालनम् ७) पञ्चसप्ततेः विशिष्टोद्देशपाठ्यक्रमशिक्षणकेन्द्राणां स्थापनम् ८) पञ्चसप्तत्यां स्थानेषु संस्कृतप्रदर्शिन्याः आयोजनम् ९) पञ्चसप्तत्यां स्थानेषु ब ...


Read more