असाध्यं साध्यं कुर्याम

spf

किमपि कार्यं साध्यम् उत असाध्यम् इति चिन्तनस्य प्रारम्भः तु मनसि भवति। साध्यम् इति भावात्मकरूपेण प्रारभ्येत चेत् कथं साध्यम् इत्यस्य क्रमशः एकैकः अंशः स्फुरेत् अथवा चिन्तनाय प्रयत्नः वा भवेत्। न साध्यम् इति अभावात्मकरूपेण प्रारभ्येत चेत् किमर्थं न साध्यम् इत्यस्य एकैकं कारणं मालारूपेण स्फुरेत्।

पञ्चकोटिच्छात्राः संस्कृतेन भाषणे समर्थाः करणीयाः इति उक्ते सति असाध्यम् इति कश्चन संस्कृतज्ञः वदेत्। तर्हि पञ्चलक्षसंस्कृतशिक्षकान् वा संस्कृतेन अभिव्यक्तिसमर्थान् कुर्याम इति उक्ते सति सः एव संस्कृतज्ञः वदेत् नैव भोः, पञ्चकोटिच्छात्राणां संस्कृतेन भाषणं वा कारयितुं शक्नुयाम, परन्तु पञ्चलक्षशिक्षकाणां संस्कृतेन भाषणकारणं नैव साध्यम् इति। पञ्चलक्षशिक्षकाणां द्वारा पञ्चकोटिच्छात्राणां संस्कृतसंभाषणाभ्यासः पञ्चवर्षाभ्यन्तरे कारणीयः इति वदेम चेत् सः संस्कृतज्ञः वदेत् पञ्चसु वर्षेषु किम्? पञ्चाशति वर्षेषु अपि असाध्यम् इति। तद् असाध्यं साध्यं कुर्याम इत्येव एतत् चिन्तनम्।

भारते सामान्यतः पञ्चलक्षपरिमिताः संस्कृतशिक्षकाः, पञ्चकोटिपरिमिताः संस्कृतच्छात्राः च सन्ति। आगामिषु दशसु वर्षेषु संस्कृतशिक्षणे सर्वदृष्ट्या नवोत्त्थानं सम्पादनीयं चेत् प्रथमोपक्रमरूपेण सर्वे शिक्षकाः संस्कृतेन अभिव्यक्तिं कर्तुं समर्थाः भवेयुः, किञ्च तेषां पञ्चलक्षसंस्कृतशिक्षकाणां द्वारा पञ्चसु वर्षेषु पञ्चकोटिसंस्कृतच्छात्राः संस्कृतेन वक्तुं लेखितुं च समर्थाः भवेयुः इति काचित् योजना करणीया। एतत् साधयितुम् अपि साधनत्वेन कश्चन कार्यक्रमः आवश्यकः। तदर्थं प्रथमसोपानरूपेण एकस्मिन् शैक्षिकवर्षे कर्तुं योग्या (कोरोनाकारणेन अग्रिमशैक्षिकवर्षे न शक्या चेत् तदनन्तरवर्षे वा) काचित् कार्यकल्पना अत्र प्रस्तूयते।

शिक्षणव्यवस्थायां विद्यालयीयशिक्षणम् उच्चशिक्षणम् इति व्यवस्थाद्वये पुनः आधुनिकं पारम्परिकम् इति भागद्वयम् अस्ति। तयोः पारम्परिकविभागः लघुतरः कार्यसाधनाय सरलतरः च। अतः तस्मात् परिवर्तनस्य प्रारम्भः चिन्तयितुं शक्यः। देशे सप्तदशसु संस्कृतविश्वविद्यालयेषु तत्सम्बद्धेषु महाविद्यालयेषु शास्त्रि/आचार्यकक्ष्यासु तथैव सप्तभिः संस्कृतमाध्यमिकशिक्षापरिषद्भिः सह सम्बद्धेषु विद्यालयेषु प्राक्शास्त्रि/मध्यमा/उपाध्याय/साहित्यादिषु कक्ष्यासु च (न तु तत्पूर्वतनकक्ष्यासु) नियतरूपेण कक्ष्याः आगत्य पठितारः छात्राः (न तु पञ्जिकाङ्किताः) किञ्च शोधच्छात्राः आहत्य सामान्यतः ५०,००० स्युः। तेषु उच्चतरसंस्कृतविद्यालयेषु महाविद्यालयेषु विश्वविद्यालयेषु च संस्कृतस्यैव शिक्षकाः सामान्यतः ५००० स्युः। प्रतिशिक्षकं १० छात्राः इति चिन्त्यताम्। यदि एकस्मिन् शैक्षिकवर्षे वयम् उपरि निर्दिष्टान् ५५,००० जनान् संस्कृतेन भाषणे लेखने च समर्थान् कारयितुं शक्नुयाम तर्हि पञ्चसु वर्षेषु ५,०५,००,००० जनान् कारयितुं शक्नुयाम। असाध्यं साध्यं कुर्याम एव । पञ्चवर्षाणां योजना अत्र न प्रस्तूयते। केवलम् एकस्य एव वर्षस्य कार्यकल्पना दीयते, योजना तु प्रतिविश्वविद्यालयं प्रतिराज्यं च सम्बद्धैः जनैः उपविश्य करणीया भवेत्।

लक्ष्यं भवेत् प्राक्शास्त्रिसहितं शोधस्तरं यावत् विद्यमानेषु ५०,००० छात्रेषु प्रत्येकं छात्रः एकवर्षाभ्यन्तरे संस्कृतभाषया “सरलतया, शुद्धतया, धाराप्रवाहतया च भाषितुं लेखितुं च समर्थः भवेत्” इति। एतस्मिन् कर्मणि कर्तारः स्युः ते पूर्वोक्ताः ५००० प्राध्यापकाः शिक्षकाः वा। वर्षारम्भे द्वित्रमासाभ्यन्तरे प्राध्यापकैः एव एतदर्थं यत् यत् करणीयं तस्य सर्वस्य सज्जीकरणं सामग्रीनिर्माणं च करणीयम्। सर्वैः प्राध्यापकैः परस्पराभ्यासाः भाषाभ्यासप्रयोगाः च करणीयाः कारणीयाः वा। तदनन्तरं प्रत्येकं प्राध्यापकाय १०-१५ छात्राणां कश्चन निर्दिष्टः गणः दातव्यः। तावतां छात्राणां लक्ष्यानुसारं भाषाभ्यासकारणस्य उत्तरदायित्वं तस्य प्राध्यापकस्य भवेत्।

एकवर्षावधौ एतैः ५५,००० छात्रैः प्राध्यापकैः च यदा भाषाभ्यासाय, स्वभाषायां सरलतासम्पादनाय, शुद्धतासम्पादनाय, धाराप्रवाहतासम्पादनाय च यावन्तः अपि विनूतनाः मौखिकाभ्यासाः, लेखनाभ्यासाः, वैयक्तिकाभ्यासाः, सामूहिकाभ्यासाः, गणकार्याणि च क्रियेरन्, ध्वनिमाध्यमस्य बहुविधाः नवीनप्रकारकाः अभ्यासाः निर्मीयेरन् तदा तेषां सर्वेषां द्वारा संस्कृतभाषाशिक्षणे महती साहित्यसृष्टिः भवेत्। काचित् ऐतिहासिकी शैक्षिकी प्रगतिः भवेत्। आवर्षं सर्वैः सामग्रीविनिमयः अनुभवविनिमयः च क्रियेत। एतेन उपक्रमेण छात्रोपयोगीनि शिक्षकोपयोगीनि च बहूनि नवीनानि पुस्तकानि निर्मितानि भवेयुः।

संस्कृतविद्यालयानां संस्कृतमहाविद्यालयानां संस्कृतविश्वविद्यालयानां च प्राध्यापकाः, शिक्षकाः, छात्राः च संस्कृतेन वक्तुं लेखितुं च न शक्नुवन्ति इति एषः विषयः संस्कृतकुलस्य एव महत्तमः कलङ्कः। किञ्च यदि वयम् अस्मदीयान् एव शिक्षितुं न शक्नुयाम तर्हि जगति अन्यान् कान् अपि शिक्षितुं न शक्नुयाम। प्रत्येकं संस्कृतज्ञेन संस्कृतच्छात्रेण च एषः विषयः स्पर्धाह्वानरूपेण स्वीकरणीयः। संस्कृतप्राध्यापकैः यैः जगतः मार्गदर्शनं करणीयम् अस्ति तैः एषः विषयः अत्यन्तं गम्भीरतया स्वीकरणीयः अस्ति। यदि वयम् एतावत् अपि कर्तुं न शक्नुयाम अर्थात् संस्कृतकुलसदस्यान् अस्मदीयान् ५५,००० जनान् अपि संस्कृतभाषाप्रयोगसमर्थान् कर्तुं न शक्नुयाम तर्हि वयं संस्कृतज्ञाः कथम् अन्यान् प्रेरयेम ?

संस्कृतज्ञानाम् एव संस्कृतभाषया अभिव्यक्तौ असामर्थ्यम् इति एतद् आङ्ग्लशिक्षणव्यवस्थायाः अन्तिमं फलम्। स्वाभिमानिनाम् अस्माकम्, तत्रापि संस्कृतज्ञानाम् अस्माकं लज्जास्पदं विषयः। एतां न्यूनतां वयं न सहामहे। एतं कलङ्कं वयं प्रक्षालयेम।

एतस्मिन् वर्षे एव अर्थात् विलम्बं विना अस्माभिः प्राध्यापकैः एवं प्रयत्नः कृतः चेत् समीचीनं भवेत् यत् प्राक्शास्त्रितः शोधस्तरपर्यन्तं संस्कृतस्य एकः अपि छात्रः संस्कृतभाषया अभिव्यक्तौ “असमर्थः”, “अकुशलः” “अवाक्”, “मूकः” वा न अवशिष्येत इति। तदर्थं छात्राणाम् अभ्यासं कारयितुं प्रत्येकं छात्रस्य उत्तरदायित्ववान् प्राध्यापकः कः इति निश्चितं भवेत्।

अयि भोः, संस्कृतप्राध्यापकाः! इदानीम् आगतः अस्ति अस्माकं संस्कृतप्राध्यापकानां समयः। अस्माकं प्रतिभायाः विनूतनरूपेण उपयोगस्य समयः। कृतिशूरतायाः प्रदर्शनस्य समयः। संस्कृतात् प्राप्तस्य प्रत्यर्पणस्य समयः। नवनिर्माणस्य समयः। भविष्यद्भारताय अस्माकं शिष्याणां सज्जीकरणस्य समयः। संस्कृतविश्वविद्यालयः इति नाम्नः सार्थकीकरणसमयः। अस्माकं जीवनकाले यदि एतत् कार्यं वयं न कुर्याम तर्हि एतस्मिन् समये अस्माकं जीवनेन किम्?

एतत् कार्यं साध्यम् अस्ति। अन्यैः असाध्यम् इति चिन्त्यमानं कार्यं वयं साध्यम् इति कृत्वा दर्शयेम। अतः असाध्यं साध्यं कुर्याम इति सन्देशपूर्णम् एतं लेखं देशे सर्वत्र सर्वान् संस्कृतज्ञान् प्रति प्रापयेम, तैः सह चर्चयेम, स्वयं चिन्तयेम, सामाजिकमाध्यमेषु प्रसारयेम च।


By :- Chamu Krishna Shastry | Views:- 4982 | 08-05-2021 04:40 PM