अनुवर्तनम् उत परिवर्तनम्?

spf

कमपि संस्कृतशिक्षकं पृच्छेम अग्रिमेषु दशसु वर्षेषु संस्कृतशिक्षाक्षेत्रे किं किं परिवर्तनं भवेत् इति। तस्य सहजम् उत्तरं स्यात् संस्कृतस्य संस्कृतेन पाठनं भवेत् इति तथा च प्रथमकक्ष्यातः द्वादशकक्ष्यापर्यन्तं संस्कृतम् अनिवार्यं भवेत् इत्यादि। तत्र द्वितीयः विषयः सद्यः अशक्यः अव्यावहारिकः च इति कारणेन तद्विषये अत्र न चर्चयामि। प्रथमस्य विषये भवतः का योजना इति पृष्टे सति बहुशः बहूनां समीपे योजना नास्ति। तदर्थं भवतः चिन्तने कार्ये च परिवर्तनम् आवश्यकं किम् इति पृष्टे सति बहुशः तद्विषये अपि तेन अद्यावधि न चिन्तितं स्यात्। संस्कृतक्षेत्रे परिवर्तनं सर्वः अपि इच्छति। परन्तु तदर्थं प्रथमं स्वस्मिन् परिवर्तनं भवेत् इति सः कदाचित् न जानीयात्।

शतात् वर्षेभ्यः पूर्वं या संस्कृतशिक्षणव्यवस्था कल्पिता यः विधिः ये पाठ्यक्रमाः च चिन्तिताः स्थूलतया मूलभूततया च ते एव इदानीमपि प्रयोगे सन्ति। आवरणं परिवृत्तं स्यात्, परम् अन्तर्वस्तुजातं तदेव। अस्माभिः ब्रिटिशकालीनैः विधिभिः नीतिभिः च किञ्चिदनन्तरकालीनैः पाठ्यक्रमैः च अद्य सङ्गणककाले पाठनं क्रियते। अतः आगमिष्यतः डिजिटलकालस्य प्रवेशसन्दर्भे विद्यमानस्य एव अनुवर्तनम् उत परिवर्तनम् इति चिन्तनाय इदानीं योग्यः कालः।

परिवर्तनस्य प्रथमप्रतिरोधः तु एतस्य आवश्यकता नास्ति, इतोपि समीचीनतरं किं भवितुमर्हति, परिवर्तयति चेत् विद्यमानम् अपि नष्टं भवेत् इति बहुविधतर्काणां प्रदानेन भवति। अतः परिवर्तनं किमर्थम् इति अस्माकं स्पष्टता स्यात्। संस्कृतपाठनस्य वर्तमानया व्यवस्थया पद्धत्या च दिने दिने संस्कृतस्य ह्रासः जायमानः अस्ति तथा च संस्कृतक्षेत्रं परिशुष्कं सङ्कुचितं च जायमानम् अस्ति। (एतद्विषये संस्कृतज्ञानां निश्चिन्तता एव मम चिन्तायै अस्ति!) किञ्च संस्कृतजगतः बहिः बहूनि परिवर्तनानि जातानि। आहत्य शिक्षायां संस्कृतविषयस्य अस्तित्वस्य प्रश्नः समुत्पन्नः अस्ति। अतः शैक्षिकं परिवर्तनम् अनिवार्यम् इति विचारसङ्क्षेपः। किं परिवर्तनं कीदृशं परिवर्तनं तत् कथं साधनीयम् इति परिवर्तनस्य परिकल्पना अपि स्पष्टा भवेत्। तद्विषये इतःपूर्वमपि केचन लेखाः लिखिताः, अग्रे अपि लेखिष्यन्ते।

परिवर्तनस्य प्रारम्भः संस्कृतशिक्षकाणां मनसि भवेत्। तस्मिन् प्रथमसोपाने एव परिष्टम्भः(resistance) भवितुम् अर्हति। जनानां पूर्वधारणाः(prejudices), पूर्वाग्रहाः(biases), सुखवर्तुलतः बहिः आगमनस्य अनिच्छा इत्यादयः अंशाः मानसिकं प्रतिरोधम् उत्पादयन्ति। संस्कृतमाध्यमेन पाठितं चेत् विद्यमानाः छात्राः अपि पलायनं कुर्युः, अहं संस्कृतेन सम्यक् वक्तुं पाठितुं च न शक्नुयाम्, जनाः मम परिहासं कुर्युः, समये पाठ्यक्रमः परिसमाप्तः न भवेत् इत्यादिरूपेण परिशङ्कमानं मनः परिवर्तनस्य प्रतिबन्धं करोति। अतः तादृशाः अनुदाः(प्रेरणाहीनाः) अनुत्सुकाः अल्पवाक्सामर्थ्याः शिक्षकाः अनुवर्तनम् एव इच्छन्ति। संस्कृतोन्नतेः विषये अनुचिन्तनं विना अनुत्पत्तिकम्(non-productive) अनुवर्तनम् अनुचितम्। अद्य संस्कृतशिक्षायाः विषये संस्कृतज्ञानां सामूहिकम् अनुशीलनं नास्ति इत्यतः अपि विद्यमानस्य एव अनुवर्तनं प्रचलति। अनुवर्तनं स्थितं जलम् इव। परिवर्तनं प्रवहत् जलम् इव। परिवर्तनम् अनिच्छत् मनः भवन्तम् अनुवर्तनाय प्रतिबध्नाति। अतः परिवर्तनाय भवान् सज्जः भवेत्। नो चेत् परिवर्तनं भवन्तम् एव परिवर्जयेत्।

बाह्यपरिवर्तनस्य प्रारम्भः आन्तरिकपरिवर्तनेन भवति। “ह्यः अहं बुद्धिमान् आसम्। अतः जगतः परिवर्तनम् इच्छामि स्म। परन्तु अद्य अहं विवेकवान् अस्मि। अतः अहं माम् एव परिवर्तयन् अस्मि” इति उक्तेः अनुसारं संस्कृतक्षेत्रे परिवर्तनम् आनेतुं प्रथमं स्वस्मिन् परिवर्तनम् आनेतव्यं भवेत्। यदा भवान् भवतः सुखवर्तुलतः बहिः पदक्षेपं कुर्यात् तदा एव भवान् परिवर्तेत, कार्ये प्रवर्तेत च। तेन भवान् परिवर्धेत, संस्कृतं परिवर्धयेत च।

परिवर्त्याः अपि वयम्, परिवर्तकाः चापि वयमेव। “परिवर्तनं वेदनाकरं न भवति, परिवर्तनस्य विरोधः वेदनायै भवति” इति गौतमबुद्धः। क्लेशाः तु सर्वत्र सन्ति, अनुवर्तने परिवर्तने च। क्लेशभयेन विघ्नभयेन वा अनारम्भः नीचजनलक्षणम् इति पञ्चतन्त्रं वदति। अधिकांशजनाः परिवर्तनं द्विषन्ति। तेषां द्वेषमूलं तु कर्तव्यम् अतिरिक्तकार्यम्, दातव्यः अतिरिक्तसमयः, करणीयः अतिरिक्तश्रमः, सोढव्या अतिरिक्तशिरोवेदना चेति। अतः संस्कृतोन्नत्यै अतिरिक्तदूरक्रमणाय संस्कृतज्ञानाम् अस्माकं मनसः परिवर्तनम् आवश्यकम्। जीवनाय वर्धनीयम्, वर्धनाय परिवर्तनीयम्, परिवर्तनाय अध्ययनीयम्, अध्ययनाय दर्शनीयम्, दर्शनाय नेत्रे उद्घाटनीये, नेत्रयोः उद्घाटनाय मनसः उद्घाटनम् आवश्यकम्। सर्वपरिवर्तनमूलं मनःपरिवर्तनम्।

संस्कृतभाषया संस्कृतज्ञैः च निकटभविष्ये एव अप्रासङ्गिकैः न भवितव्यं चेत् झञ्झावातोत्क्षिप्तैः प्रवाहोत्प्लावितैः वा न भवितव्यं चेत् सद्यः काले भारते आगमिष्यताम् 5G-Technology, AI-Technology, Digital India इत्यादीनां कारणेन जनजीवने राष्ट्रजीवने च कानि कानि महन्ति अनूहितानि परिवर्तनानि भवेयुः, तत्परिणामतः शिक्षणक्षेत्रे कानि परिवर्तनानि भवेयुः इत्यस्य अध्ययनम् अवश्यं कर्तव्यम्। तानि अवगत्य तेषां सम्मुखीकरणाय अद्य काः सज्जताः कानि परिवर्तनानि च करणीयानि इति चिन्तनीयम्। यदि तेषु विषयेषु वयम् अद्य अनुद्यमाः भवामः तर्हि श्वः अस्माभिः अनुतापः अनुभवितव्यः भवेत्। ये कालोचितकार्यज्ञाः न भवन्ति ते कालतिरस्कृताः अपरिगण्याः च भवितुम् अर्हन्ति।

परिवर्तनं तु अवश्यंभावि। तच्च आन्तरिककारणैः शक्यं बाह्यकारणैः अपि शक्यम्। आन्तरिकम् अर्थात् संस्कृतज्ञानाम् अस्माकं प्रयत्नैः योजनापूर्वकं जायमानं परिवर्तनं मन्दं भवेत्। बाह्यकारणजं परिवर्तनं तु सहसा अपि भवेत् अथवा मन्दमपि स्यात्। कस्यांश्चिदपि स्थितौ तद् पूर्णतः अस्मदधीनं न स्यात्। परं तदर्थं सज्जता अस्मदधीना।

वर्तमानकालिकानाम् अस्माकं नैतिककर्तव्यं भवति संस्कृतस्य भविष्यं रूपयितुं, परिवर्तनकारणात् जनिष्यमाणानि छात्राणां कष्टानि न्यूनीकर्तुं च।

संस्कृतकक्ष्यासञ्चालने परिवर्तनं पाठनविधौ परिवर्तनं छात्रेषु परिवर्तनं च सम्पूर्णतः वैयक्तिकरूपेण शिक्षकाधीनम्। पाठ्यक्रमे पाठ्यपुस्तके मूल्याङ्कनविधौ शिक्षकप्रशिक्षणे च परिवर्तनं सामूहिकरूपेण शिक्षकाधीनम्। एवं एतेषु सप्तसु विषयेषु परिवर्तनं संस्कृतशिक्षकजगतः आन्तरिकं परिवर्तनम्। पाठ्यचर्यायां शिक्षानीतौ च परिवर्तनं सर्वकारसम्बद्धं बाह्यं परिवर्तनम्। आन्तरिकपरिवर्तनस्य अनन्तरं तस्य आन्तरिकपरिवर्तनस्य परिणामतः बाह्यपरिवर्तनं भविष्यति। तावत् पर्यन्तम् अस्माभिः धैर्येण प्रतीक्षा करणीया भविष्यति किञ्च बाह्यपरिवर्तनम् अपेक्ष्यते चेत् आन्तरिकपरिवर्तनं प्रथमं साधनीयम् इति सत्यम् अङ्गीकर्तव्यं भविष्यति। परिवर्तनस्य मार्गपटः एवं भविष्यति - क्रमशः - शिक्षके परिवर्तनम् – पाठनविधौ परिवर्तनम् – कक्ष्यासञ्चालने परिवर्तनम् - छात्रेषु परिवर्तनम् – पाठ्यपुस्तके परिवर्तनम् – शिक्षकप्रशिक्षणे परिवर्तनम् - मूल्याङ्कनपद्धतौ परिवर्तनम् – शिक्षानीतौ परिवर्तनम् – पाठ्यचर्यायां परिवर्तनम् – पाठ्यक्रमे परिवर्तनम् इति। अनन्तरं पुनः एवमेव द्वितीयचक्रस्य प्रारम्भः भविष्यति।

अनुवर्तनम् अथवा परिवर्तनम् इति द्वयोः मध्ये भवता अन्यतरस्य चयनं करणीयं भविष्यति। संस्कृतशिक्षणेतिहासे भवान् केन रूपेण स्मृतः भवेत् इति भवान् चिन्तयतु तदनुगुणं चिनोतु च। भयधैर्ययोः, शयनसर्जनयोः, निश्चलपुरश्चलयोः, पलायनपराक्रमयोः, निवर्तनप्रवर्तनयोः, अनुवर्तनपरिवर्तनयोः च इति एवं चयनाय कल्पद्वयम् अस्ति। द्वितीयस्य चयनं भवन्तम् अद्वितीयं कुर्यात्!


By :- Chamu Krishna Shastry | Views:- 3752 | 15-07-2020 04:29 PM