योगसंस्कृतयोः संयोगः

spf

योगदिवसः समागतः। एतेन निमित्तेन देशे विश्वे च सर्वत्र बहवः कार्यक्रमाः भवन्ति। प्रचारमाध्यमेषु योगः मुख्यविषयः भवति। एतस्मिन् समये संस्कृतज्ञैः अस्माभिः किं करणीयम् इति विषये अत्र किञ्चित् प्रस्तावः क्रियते।

संस्कृतहितं साधयितुं योगदिवसः कश्यचन अवसरः भवेत् यदि वयम् एतम् अवसरत्वेन पश्येम। योगशास्त्रं संस्कृतवाङ्मयस्य भागभूतम्। परम् अद्य संस्कृतज्ञाः, संस्कृतमहाविद्यालयाः संस्कृतविश्वविद्यालयाः वा योगस्य आन्वयिकक्षेत्रे न सन्ति, न वा योगस्य वर्तमानाः अधिकांशाः शिक्षकाः संस्कृतं जानन्ति। किञ्च योगस्य प्रशिक्षणेषु, चर्चासु, पुस्तकादिषु च अन्यभाषाणाम् एव प्रयोगः भवति, न तु संस्कृतभाषायाः। एवं योगतः संस्कृतस्य वियोगः सम्पूर्णः जातः अस्ति। तस्मात् योगसंस्कृतयोः संयोगस्थापनस्य महती आवश्यकता अस्ति। तदर्थं संस्कृतज्ञैः उपायाः चिन्तनीयाः। एतद्विषये संस्कृतज्ञैः एव अग्रेसरैः भवितव्यम्।

तर्हि तदर्थं किं करणीयम्? पञ्च अंशाः जनानां पुरतः सामाजिकमाध्यमानां द्वारा भिन्नभिन्नप्रकारैः पुनः पुनः उपस्थापनीयाः येन कालक्रमेण समाजमानसे संस्कृतविषयकं चित्रं परिवृत्तं भवेत्। तत्र प्रथमः अंशः नाम योगस्य भाषा संस्कृतम् इति। एतस्य कथनस्य तात्पर्यम् अस्ति यत् योगशास्त्रस्य विकासः संस्कृतभाषया अभवत् अतः योगस्य भाषा संस्कृतभाषा इति। इतरभारतीयभाषाभिः अपि योगविषयकाः ग्रन्थाः रचिताः सन्ति। परन्तु अत्यधिकमात्रेण संस्कृतभाषया सन्ति, मूलग्रन्थाः अपि संस्कृतेन एव सन्ति इति।

द्वितीयः अंशः नाम योगस्य सुष्ठु अर्थज्ञानाय संस्कृतभाषाज्ञानम् अनिवार्यम् इति। योगशब्दम् आरभ्य योगस्य सर्वे पारिभाषिकाः शब्दाः संस्कृतस्य एव। यदि ते शब्दाः त्यज्येरन् अथवा संस्कृतभाषा न ज्ञायेत तर्हि योगशास्त्रस्य अर्थः एव न अवगम्येत।

तृतीयः अंशः नाम मूलसंस्कृतग्रन्थाः पठनीयाः, न तु अनूदितग्रन्थाः इति। अनुवादेन अनुवादकस्य अवगमनस्य न्यूनता, अनुवादमाध्यमभाषयाः न्यूनता तथा च अद्यावधि योगक्षेत्रे योगेतरक्षेत्रे च सर्वेषां ग्रन्थानाम् आङ्ग्लानुवादसमये तथा च आङ्ग्लग्रन्थानां भारतीयभाषाभिः अनुवादसमये च जातानाम् अर्थविपर्ययाणां कारणतः समुत्पन्नाः न्यूनताः इति त्रिभिः कारणैः अनूदितग्रन्थाः न प्रामाणिकाः, अप्रत्ययनीयाः वा। तस्मात् मूलग्रन्थाः संस्कृतेन पठनीयाः इति।

चतुर्थः अंशः नाम आसनप्राणायामौ अतिरिच्य विशालं योगवाङ्मयम् संस्कृतभाषायाम् अस्ति। अद्य योगनाम्ना आसनप्राणायामौ केवलं जगति विख्यातौ। तद् अतिरिच्य सुमहत् योगवाङ्मयम् अस्ति इति जनाः न जानन्ति। भगवद्गीता अपि योगस्य अन्यतमः आधारभूतः ग्रन्थः इत्यपि न जानन्ति। पातञ्जलयोगसूत्राणि, योगवासिष्ठम् इत्यादीनि तु जनैः नाम्ना अपि कदाचित् न ज्ञायेरन्।

पञ्चमः अंशः नाम योगसंस्कृतयोः संयोजनं भवेत् इति। योगस्य अवगमनाय, शास्त्रस्य विकासाय, संस्कृतस्य प्रचाराय च पुनरपि द्वयोः संयोगः भवेत् इति अस्माभिः प्रयत्नः करणीयः। योगक्षेत्रे संस्कृतज्ञाः संस्कृतविश्वविद्यालयाः च अग्रेसराः भविष्यन्ति चेत् संस्कृतच्छात्राणाम् आजीविकाप्राप्तौ अपरः मार्गः उद्घाटितः भविष्यति।

अतः अन्ताराष्ट्रिययोगदिवससन्दर्भे एषु दिवसेषु अस्माभिः संस्कृतानुरागिभिः ट्विटर्, फेस् बुक्, वाट्साप्, कू, सिग्नल्, टेलिग्राम, इन्स्टाग्राम इत्यादिषु एतानि पञ्च तथ्यानि पुनः पुनः भिन्नभिन्नप्रकारेण प्रसारणीयानि।
1. योगशास्त्रस्य भाषा संस्कृतभाषा।
2. योगस्य सुष्ठु अर्थज्ञानाय संस्कृतज्ञानम् अनिवार्यम्।
3. मूलसंस्कृतग्रन्थाः पठनीयाः, न तु अनूदितग्रन्थाः।
4. आसनप्राणयामौ अतिरिच्य विशालं योगसाहित्यं संस्कृते अस्ति।
5. योगसंस्कृतयोः संयोजनं भवेत्।

एतेषां पञ्चानाम् अंशानां प्रख्यापनाय नूतनाः उपायाः के भवेयुः इति रणनीतिचिन्तनं यथा भवति तथा अस्माभिः उपायाः चिन्तनीयाः। संस्कृतसंवर्धनप्रतिष्ठानेन यदा विशिष्टोद्देशपाठ्यक्रमत्वेन योग-आयुर्वेद-वेदान्तादीनां नूतनाः पाठ्यक्रमाः रचिताः तदा तेषां पुस्तकानां नाम किं भवेत् इति चिन्तितम्। सुविचिन्त्य अन्ते निश्चितं यत् “योगस्य भाषा संस्कृतं पठ्यताम् (Learn Samskrit – The Language of Yoga)“ इति। तत् नाम एतदर्थमेव स्थापितं यत् अस्माकं प्रचाराभियानेन जनाः नूतनपाठ्यक्रमं पठेयुः वा न पठेयुः, सः भिन्नः विषयः, परन्तु न्यूनातिन्यूनं तेन कारणेन जनाः योगस्य भाषा संस्कृतम् इति तावत् तु जानीयुः इति। एवं व्यूहात्मकचिन्तनं कार्यसाधकचिन्तनं कार्योपायचिन्तनं व्यूहरचनाकरणं रणनीतिचिन्तनं संप्रेषणकौशलं सर्जनकौशलं प्रभाविसंप्रेषणं च कथं स्यात् इत्यादिरूपेण यूनां संस्कृतज्ञानां संस्कृतप्रचारकार्यचिन्तनं भवेत्।

एतस्मिन् एव समये योगस्य भाषा संस्कृतं पठ्यताम् इति पाठ्यक्रमस्य अपि प्रचारः क्रियताम्। तस्य सम्पर्कसूत्रम् एवम् अस्ति - https://www.learnsamskrit.online/yoga

प्रकृतं योगः व्यावहारिकरूपेण संस्कृततः दूरं गतः अस्ति। यथा वृक्षः मूलतः छिन्नः भवति चेत् न जीवति तथा योगः मूलतः संस्कृततः विच्छिन्नः चेत् न वर्धेत। अतः योगसंस्कृतयोः संयोगः भवेत्।

भोः सुहृद्वराः संस्कृतज्ञाः! भवतां नवनवोन्मेषशालिनी प्रतिभा अत्र प्रदर्श्यताम्। समाजमानसे संस्कृतस्य उपस्थापनं विनूतनरूपेण क्रियताम्।


By :- Chamu Krishna Shastry | Views:- 2891 | 18-06-2021 07:33 PM