नवसर्जनम्

spf

वृक्षे निरन्तरं नवपर्णानि उत्पद्यन्ते। पर्णोत्पत्तिप्रक्रिया स्थगिता चेत् वृक्षस्य मरणं सर्वेषां दृष्टिपथे आगच्छति। शरीरे प्रतिक्षणं नवजीवकोषाणाम् उत्पत्तिः भवेत्। अतः शरीरं सुष्ठु स्वस्थं च तिष्ठति। नवजीवकोशोत्पत्तौ ह्रासः जातः चेत् शरीरे जरायाः आगमनं सर्वैः दृश्यते। तर्हि संस्कृतशिक्षावृक्षे नवपर्णानि कानि? संस्कृतशिक्षाशरीरे नवजीवकोषाः के?
कस्याश्चित् अपि भाषायाः साहित्ये आवर्षं निरन्तरं बहूनां नवानां कृतीनां सर्जनं भवति, प्रकाशनं भवति च। अतः तद् साहित्यं समकालिकं वर्धमानं जनैः पठ्यमानं च भवति। चित्रकलाक्षेत्रे चित्रकारः प्रतिमासं नूतनं चित्रं सृजति। वस्त्रवणिक् प्रत्येकवारं नूतनविन्यासयुक्तं वस्त्रं दर्शयति। एवं प्रकारेण यथा नवतायाः सर्जनशीलतायाः वा असङ्ख्यानि उदाहरणानि वक्तुं शक्यन्ते तथा संस्कृतशिक्षाक्षेत्रे अपि आवर्षं निरन्तरं बहूनि नवसर्जनानि भवेयुः।
संस्कृतशिक्षाक्षेत्रे नवसर्जनं नाम किम्? पाठ्यसामग्र्यां नवसर्जनम्। पाठ्यक्रमे नवसर्जनम्। पाठ्यपुस्तकेषु नवसर्जनम्। पाठनविधिषु नवसर्जनम्। पाठ्योपकरणेषु नवसर्जनम्। अभ्यासेषु नवसर्जनम्। चित्रेषु नवसर्जनम्। उपस्थापनेषु नवसर्जनम्। एवं बहुविधानि नवसर्जनानि भवितुम् अर्हन्ति।
यदा संस्कृतशिक्षकाणां चिन्तने नावीन्यं भवेत् तदा नवसर्जनं भवेत्। यदा प्रयत्ने नवीनता भवेत् तदा अपि नवसर्जनं भवेत्। यदा छात्रावश्यकताकेन्द्रितं चिन्तनं भवेत् तदा नवसर्जनं भवेत्। यदा निर्दिष्टकाले निर्दिष्टपरिणामस्य प्राप्त्यर्थं योजना भवेत् तदा नवसर्जनं भवेत्। यदा शिक्षणस्य समस्यां काञ्चित् स्वीकृत्य परिहारान्वेषणपुरस्सरं कार्यं चिन्त्येत तदा नवसर्जनं भवेत्।
नवसर्जनं कदा न भवेत्? यदा शिक्षकः तृप्तः अथवा अल्पतृप्तः तदा नवसर्जनं न भवेत्। यदा प्राध्यापकः अहम् अनवशिष्टकर्तव्यः इति चिन्तयति तदा नवसर्जनं न भवेत्। कथं पाठनीयम् इति प्रश्नः न भवेत् चेत् नवसर्जनं न भवेत्।
यदा आ बहोः कालात्, क्वचित् आजीवनम्, केचन पाठ्यक्रमाः तदनुगुणं च केचन ग्रन्थाः पाठ्यपुस्तकानि वा पाठ्यन्ते, तेन च प्राध्यापकानां शिक्षकाणां च या रूढिः भवति, तद्रूढिबलात् किं पुनः नूतनम् अन्यत् किमपि भवितुम् अर्हति? पाठः नाम एषः एव इति स्थिरा भावना भवति। एतादृशचिन्तनात् बहिः आगमनं कथम् इति अस्माभिः चिन्तनीयम्।
ग्रन्थः सः एव प्राचीनः पाठ्येत। परन्तु परिवृत्तपरिस्थित्यनुगुणं छात्राणां वयसः ज्ञानस्य पृष्ठभूम्याः च अनुगुणं पाठनविधिसामग्र्यभ्यासादिकानि भिन्नानि भवितुम् अर्हन्ति। तत्र शिक्षकप्राध्यापकादीनां सर्जनात्मकप्रतिभायाः विनियोगः भवेत्। सूत्रं तदेव प्राचीनं पाठ्येत। परन्तु देशकालपरिनर्तनानुगणम् उदाहरणानि भिन्नानि भवेयुः। केचन एतत्सर्वं कुर्वन्तः स्युः अपि। परन्तु तेषां कुत्रापि प्रकाशनं न जायमानम् अस्ति।
लघुसिद्धान्तकौमुदी एव पाठ्येत नाम। परन्तु अभ्याससामग्रीरूपेण छात्रोपयागिपुस्तकं प्रतिवर्षं भिन्नं भवितुम् अर्हति खलु? लघुकौमुद्याः छात्राभ्यासपुस्तकं प्रतिवर्षं नूतनं स्यात् इति तु दूरे एव यतः अद्यावधि तादृशं किञ्चित् निर्मितं वा इति एव सन्देहः अस्ति।
कश्चन पृष्टः यत् भवतः कतीनां वर्षाणां पाठनानुभवः इति। तेन उक्तं एकविंशतेः वर्षाणाम् इति। पुनः सः पृष्टः – एकविंशतेः वर्षाणाम् उत एकवर्षस्य पाठनानुभवः तथा च तस्य एव अनुभवस्य पुनरावृत्तिः विंशतेः वर्षाणाम् इति वा? इति। पुनरावर्तनेन नवसर्जनं न भवेत्।
नवसर्जनं करणीयम् इत्येतदर्थमेव नवसर्जनं करणीयम्। संस्कृतसम्भाषणान्दोलनस्य प्रारम्भिकवर्षेषु अस्माकं शिबिरचालकानां केषाञ्चित् सकृत्-प्रयोग-प्रतिज्ञा इति किञ्चन व्रतम् आसीत्। अर्थात् शिबिरे पाठनसमये अद्य किञ्चन उदाहरणम् उक्तं चेत् कश्चन प्रविधिः प्रयुक्तः चेत् पुनः द्वितीये दिने तस्य प्रयोगः न करणीयः, एकवारमेव प्रयोगः इति। एतेन व्रतेन अस्माकं शिक्षकाणां तथा च पाठनपद्धतिसामग्र्यादीनां महान् विकासः जातः। एवं संकल्पेन प्रयत्नेन च केवलं नवसर्जनं भवेत्। अन्यथा करणीयं करणीयम् इति सद्भावनायामेव समयः अतीतः भवति।
अस्माकं भोजने अरुचिः किमर्थं न भवति? बुभुक्षा इति एकं कारणं चेत् अपरं कारणं माता, पत्नी, पाचकः वा प्रितदिनं नूतनं शाकं नूतनं पाकं च करोति इति खलु। तथैव शिक्षकैः अस्माभिः छात्रेषु रुच्युत्पादनाय प्रतिदिनं नूतनं परिवेष्टव्यम्। प्रतिवर्षं नवसर्जनं करणीयम्।
संस्कृतस्य आकर्षकतावर्धनाय नवसर्जनं किञ्चन प्रबलं साधनं भवेत्। विद्यालयीयशिक्षातः उच्चशिक्षापर्यन्तं विविधस्तरेषु पाठनाय पाठ्य-क्रम-पुस्तक-विधि-सामग्र्यादिषु नवसर्जनं भवेत्। प्रतिवर्षं भवेत्, निरन्तरं भवेत्, प्रतिराज्यं प्रतिविश्वविद्यालयं, प्रतिशिक्षकं च भवेत्। तेषां जालपुटादिषु प्रकाशनं भवेत् च। समानतया लोकानां पाठनाय निरन्तरं नवसर्जनं भवेत्। विषयशः, ग्रन्थशः, स्तरशः, कालावधिशः, उद्देशशः, माध्यमशः, साधनशः च बहुविधाः पाठ्यक्रमाः स्रष्टुं शक्याः, स्रष्टव्याः च।
प्रत्येकं शिक्षकस्य, प्राध्यापकस्य, विश्वविद्यालयीयविभागस्य, विश्वविद्यालयस्य, कार्यकर्तुः, संस्थायाः, सङ्घटनस्य वा मूल्याङ्कनस्य कश्चन प्रमुखः बिन्दुः भवेत् एतस्मिन् वर्षे किं किं नवसर्जनं कृतम् इति। सर्वेण स्वधीशक्तिः अत्र प्रदर्शनीया। सर्वस्य पराक्रमस्य कृते नवसर्जनम् एव स्पर्धाह्वानम्।
संस्कृतस्य वर्तमाने कठिनकाले श्रमसहाः संस्कृतशिक्षकाः, कार्यभारसहाः प्राध्यापकाः, कष्टसहाः कार्यकर्तारः च वयं सर्वंसहाः सन्तः अचलस्थितितः संस्कृतं बहिः आनेतुं संस्कृतशिक्षाक्षेत्रे नवम् वातावरणं नवम् उत्साहं च उत्पादयितुं बहुविधं नवसर्जनं कुर्याम।


By :- Chamu Krishna Shastry | Views:- 2963 | 23-01-2021 07:28 PM