संस्कृतेन

spf

तिरुपतौ यदा अहं छात्रः आसं तदा छात्रावासे मम प्रकोष्ठस्य प्रवेशद्वारे “संस्कृतेन भाषामहे” इति मया सुधाखण्डेन लिखित्वा स्थापितम् आसीत्। प्रकोष्ठे संस्कृतेन भाषणम् इति नियमः आसीत्। प्रकोष्ठम् आगतवतां समीपे संस्कृतेन भाषणाय मम आग्रहः अपि भवति स्म, किञ्च ते न जानन्ति स्म चेत् प्रायोगिकरूपेण सामान्यसंभाषणस्य वाक्यानि पाठयित्वा वाचयामि स्म च। तिरुपतिगमनात् पूर्वादारभ्य अपि संस्कृतं संस्कृतेन इति मम स्पष्टता आसीत्। अतः एव संस्कृतमाध्यमस्य विद्यापीठम् अन्विष्य अहं तिरुपतिं गतवान्। सद्यः मम एतस्य जालपुटस्य निर्माणसमये संगणकज्ञः मां पृष्टवान् यत् भवतः जालपुटे वाचकेभ्यः भवान् मुख्यं कमपि सारभूतं सन्देशम् एकेन शब्देन वदेत्, सः शब्दः स्थायिरूपेण जालपुटे भवेत्, तथा चेत् सः शब्दः कः स्यात् इति। क्षणस्य अपि चिन्तनं विना मया उत्तरम् उक्तम् आसीत् संस्कृतेन इति। अतः सः “संस्कृतेन” शब्दः जालपुटे अस्ति।

संस्कृतं संस्कृतेन। संस्कृतेन इत्यत्र करणे तृतीया विभक्तिः। संस्कृतप्रचाराय संस्कृतम् एव सर्वश्रेष्ठम् उपकरणम्। पठनं संस्कृतेन। भाषणं संस्कृतेन। लेखनं संस्कृतेन। पाठनं संस्कृतेन। सम्पर्कः संस्कृतेन। मनोरञ्जनं संस्कृतेन। गृहं संस्कृतेन। कार्यालयः संस्कृतेन। कार्यक्रमः संस्कृतेन। सन्देशः संस्कृतेन। पत्रं संस्कृतेन। एतेषु कतिचन इदानीं शक्यानि चेत् कतिचन अनन्तरं शक्यानि परन्तु सर्वाणि अपि संस्कृतेन कर्तुं शक्यानि।

अन्यभाषया संस्कृतम् इति नीतेः प्रयोजनानि अहं सम्यक् जानामि। तानि अपि उपकारकाणि इति स्वीकरोमि च। परं वयम् एतावद्दूरं येन साधनेन आगतवन्तः तद् एव साधनम् अग्रे अपि अस्मान् लक्ष्यपर्यन्तं योग्यसमये प्रापयेत् इति वक्तुं न शक्यते। गतेषु त्रिंशति वर्षेषु यत् उपकरणं फलदायि आसीत् तद् अग्रिमेषु त्रिंशति वर्षेषु परिणामकारि भवेदेव इति नास्ति। साधनद्वयमपि भवतु नाम इति कश्चन वदेत्। तत्रैव मम विप्रतिपत्तिः।

संस्कृतम् अन्यभाषया इति प्रयत्नः आ शतात् वर्षेभ्यः प्रचलन् एव अस्ति। परिणामः कः अभवत्? दिने दिने ह्रासः एव दृश्यते। परं संस्कृतेन संस्कृतम् इति आन्दोलनं दिने दिने वर्धमानम् अस्ति। वृद्धेः रहस्यं तु संस्कृतेन संस्कृतम् इति नीतिः। सद्यः संस्कृतभारत्याः तमिलनाडु दक्षिणप्रान्तस्य दूरस्थसंस्कृतकक्ष्याणां वार्ता दिनपत्रिकायाम् एकस्यां प्रकाशिता। सपदि 2179 जनाः पञ्जीकरणं कृतवन्तः। कानपुरप्रान्तस्य(उत्तरप्रदेशस्य सप्तसु भागेषु अन्यतमस्य) वाट्स्-आप् माध्यमेन संस्कृतकक्ष्यायाः घोषणायां जातायां 1075 जनाः पञ्जीकरणं कृतवन्तः। चित्तोडप्रान्ते(राजस्थानस्य त्रिषु एकः भागः) घोषणायां जातायां सप्ताहाभ्यन्तरे 1000-अधिकाः पञ्जीकरणं कृतवन्तः। गोवाराज्ये 25000 बालाः दिनस्य एकं सुभाषितम् इति प्रतिदिनं संस्कृतेन अर्थसहितं सुभाषिताभ्यासं कुर्वन्तः सन्ति। एषा एव वार्ता संस्कृतभारत्याः अन्येषाम् अपि बहूनां प्रान्तानाम्। किमर्थं तावन्तः आगच्छन्ति इत्युक्ते संस्कृतेन संस्कृतम् इति नीतिः। किञ्च देशे प्रतिराज्यं विद्यालयेषु ये ये शिक्षकाः संस्कृतेन संस्कृतपाठनं कुर्वन्तः सन्ति तत्र सर्वत्र संस्कृतं छात्राकर्षकं जायमानम् अस्ति।

संस्कृतस्य ह्रासे बाह्यानि आभ्यन्तराणि चेति बहूनि कारणानि सन्ति चेदपि प्रधानम् एकैकं बाह्यम् आभ्यन्तरं च कारणम् उच्यताम् इत्युक्ते आजीविकावसराः न्यूनाः अभवन् इति प्रधानं बाह्यं कारणं तथा च संस्कृतम् अन्यभाषया इति अस्मत्पूर्वजानां संस्कृतज्ञानां नीतिः प्रधानम् आभ्यन्तरं कारणम्।

वर्तमानानां विद्यालयीयशिक्षकाणां महाविद्यालयीयप्राध्यापकानां च विषये मम ईषत् अपि अनादरः आक्षेपः असन्तोषः वा नास्ति। यतः ते तु परम्परया आगतम् अनुसरन्तः सन्ति। किञ्च ते य़था शिक्षिताः यथा पूर्वप्राध्यापकैः बोधिताः तथा अद्य सन्ति। ते स्वयमपि अन्यभाषया पाठनेन प्रभाविताः एव। परन्तु ते अद्य वर्तमानभविष्ययोः अभिज्ञाः अवगतरणनीतिसूक्ष्माः बुद्धिमन्तः चेति भावयामि। अतः कालोचितकर्तव्यं क्रमशः जानीयुः एव। सर्वस्य अपि परिवर्तनस्य कृते कश्चन कालः आवश्यकः भवति। उदाहरणाय यथा महाराष्ट्रगुजरातराज्ययोः गतेभ्यः आ शताधिकवर्षेभ्यः विद्यालयेषु आंग्लव्याकरणानुसारं लकाराणां पाठनं भवति स्म। तस्य परिवर्तनं कृत्वा पाणिनिपद्धत्या लकाराणां पाठनं करणीयं तदनुगुणं पाठ्यपुस्तकानि लेखनीयानि इति वयम् आ त्रिंशदधिकवर्षेभ्यः वदन्तः आस्म। परम् इदानीं महाराष्ट्रे परिवर्तनं जातम्। गुजराते इतोपि न अभवत्। एतस्मिन् परिवर्तने संस्कृतज्ञानां मानसिकता धैर्यं परिश्रमः चैव मुख्यभूतानि कारणानि। न कान्यपि बाह्यकारणानि।

संस्कृतं संस्कृतेन इति चिन्तनं केवलं शिक्षाक्षेत्राय सीमितं न भवेत्। इदानीं संस्कृतपुस्तकानाम् अन्यभाषाभिः अनुवादः कार्यते। सः अनुवादः आवश्यकः किम्? जनैः तत्रत्यं ज्ञानं प्राप्तुम् इष्यते चेत् संस्कृतं पठनीयम् इति स्थितिः बलेन आनेतव्या स्यात्। तदा एव जनाः संस्कृतं पठेय़ुः, अन्यथा नैव पठेय़ुः। यावत् अनुवादाः लभ्येरन् तावत् जनाः अनुवादान् एव पठेयुः न तु मूलं यथा आ शतात् वर्षेभ्यः प्रचलत् एव अस्ति। बहुभिः नेतृभिः अधिकारिभिः च तर्कः आरब्धः एव अस्ति यत् अनुवादाः सन्ति एव, संस्कृतं किमर्थं पठनीयम् इति। किञ्च अद्यावधि प्रतिशतम् एकस्य अपि ग्रन्थराशेः अनुवादः न जातः। कियताम् अनुवादं कारयेम? अपि सर्वे अनुवादाः सुष्ठु भवन्ति? विकृतान् अर्थान् न उत्पादयन्ति किम्? एवम् अनुवादविषये बहवः प्रश्नाः सन्ति। अतः अनुवादमार्गापेक्षया संस्कृतेन इति मार्गः एव प्रायोगिकः इति तज्ञानां मतम्। कार्यक्रमाणां सञ्चालनसमये अतिथयः संस्कृतं न जानन्ति इति चिन्तयन्तः वयं संस्कृतं परित्यज्य अन्यभाषया कार्यक्रमं सञ्चालयामः अथवा भाषाद्वयेन सञ्चालयामः। आगताः अतिथयः तु संस्कृतेन इच्छन्ति। अस्माकमेव सङ्कोचः। संस्कृतकार्यक्रमाः संस्कृतेन एव भवेयुः। एवं संस्कृतेन इत्यस्य शतशः अंशाः सन्ति। संस्कृतेन इति एषः दुराग्रहः न। अपि तु कालोचितः कार्यसाधनोपायः, संस्कृतस्य अवस्थानस्य उपायः, संस्कृतस्य अस्तित्वस्य एव विषयः च।

विश्वे यत्र कुत्रापि कस्याश्चित् भाषायाः प्रचारः पुनरुज्जीवनं वा जातं चेत् तद् कार्यं तत्तद्भाषामाध्यमेन एव अभवत्। अन्यभाषामाध्यमेन काचित् अपि भाषा शिक्षिता प्रसारिता वा इति उदाहरणम् एव नास्ति। अद्य विश्वे सर्वेषु देशेषु विदेशीयभाषाणां पठनस्य महान् उत्साहः दृश्यते। सर्वत्र विदेशीयभाषा अपि तया भाषया एव पाठ्यते न तु अन्यभाषया। किं पुनः संस्कृतस्य पाठनं प्रचारः च संस्कृतेन न भवेत्?

अस्माभिः अग्रिमाणां त्रिंशद्वर्षाणाम् अर्थात् 2050तमं वर्षं यावत् काचित् दूरगामिकार्ययोजना करणीया चेत् व्यूहरचनात्मकचिन्तनं करणीयं चेत् लक्ष्याणि निश्चित्य परिणामकेन्द्रितं कार्यं साधनीयं चेत् संस्कृतं संस्कृतेन इति एकः एव मार्गः अस्ति। सः एव सुगम्यः प्रकृतिरमणीयः राजमार्गः!


By :- Chamu Krishna Shastry | Views:- 4953 | 19-06-2020 04:52 PM