सरलमानकसंस्कृतम्

spf

शिक्षणादीनां माध्यमभाषारूपेण सरलमानकसंस्कृतस्य प्रयोगः करणीयः इति एषः निर्णयः संस्कृतसम्बन्धे नीतिनिर्णयविषये सर्वोच्चपरिषदः राष्ट्रियसंस्कृतपरिषदः आसीत्। तदनुसारं रचितया समित्या तस्य सरलमानकसंस्कृतस्य स्वरूपं कीदृशं भवेत् इति विमृश्य संस्तुत्यात्मकः मार्गदर्शकः च लेखः सरलमानकसंस्कृतम् (Simple Standard Samskrit) इति नाम्ना प्रदत्तः। सः लेखः केन्द्रीयसंस्कृतविश्वविद्यालयस्य जालपुटात् http://www.sanskrit.nic.in/sss.php इत्यस्मात् सर्वे प्राप्तुं शक्नुवन्ति। सः लेखः सर्वेण अपि संस्कृतज्ञेन अवश्यम् एव पठनीयः यतः एषः निर्णयः संस्कृतशिक्षणे कश्चन असाधारणः ऐतिहासिकः संस्कृतस्थितिगतिपरिवर्तकः च निर्णयः। एषः सङ्कल्पः संस्कृतज्ञानां संस्कृतानुरागिणां च अस्माकं सर्वेषाम् आग्रहस्य आद्यतायाः प्रथमकर्तव्यस्य च क्रियान्वयनस्य विषयः भवेत्।

सरलमानकसंस्कृतस्य क्रियान्वयनं करणीयं चेत् तदर्थं सर्वैः संभूय महान् प्रयत्नः करणीयः भवेत्। कुतश्चित् कार्यारम्भः करणीयः इति तदर्थं संस्कृतविश्वविद्यालयानां कुलपतिभ्यः मया किञ्चन पत्रं लिखितं यस्य प्रतिकृतिः अत्र एव अधः दत्ता अस्ति। तस्य पठनेन वयं संस्कृतज्ञाः कुत्र स्मः, अस्माकं गतिशीलता कीदृशी, कियद्दूरं गन्तव्यं भविष्यति इति भवतः कल्पना भवेत्। कुलपतिः एकः एव किमपि कर्तुं न शक्नोति खलु। अस्माभिः सर्वैः तस्य सहकारः करणीयः। वस्तुतः एतत् कार्यं सर्वेषां संस्कृतप्राध्यापकानां शिक्षकाणां छात्राणां संस्कृतानुरागिणां च अस्ति। संस्कृतशिक्षायाः एतस्मिन् ऐतिहासिके घट्टे, सुमहति अवसरे, नवनिर्माणात्मके संस्कृतपुनरुत्त्थानकार्ये च वयं संस्कृतज्ञाः संस्कृतम् अनुत्तीर्णं न कुर्याम ! इति एतदर्थम् एतत् पत्रं भवतः सम्मुखे प्रस्तूयते। एतस्मिन् कार्ये सर्वेषां सहयोगः भवेत् इति एतदर्थम् एषः लेखः अधिकाधिकजनेभ्यः प्रेष्यताम्। सर्वः अपि अभिप्रेर्यतां च।

आदरणीय कुलपति महोदय,
नमस्कारः।
सरलमानकसंस्कृतस्य क्रियान्वयनस्य विशिष्टेन उद्देशेन मया एतत् महत्त्वभूतं पत्रं भवते लिख्यमानम् अस्ति। यावत् पर्यन्तं सरलमानकसंस्कृतं विश्वविद्यालयस्य सम्बद्धमहाविद्यालयानां च प्राध्यापकानां छात्राणां च मुखेषु कक्ष्यासु भाषणेषु लेखनेषु च प्रयुज्यमानं न भवति तावत् पर्यन्तं विश्वविद्यालये सामान्यविद्यालये वा, उच्चशिक्षायां विद्यालयीयशिक्षायां वा, पारम्परिकधारायाम् आधुनिकधारायां वा संस्कृतमाध्यमेन पाठनं नैव भवेत् येन च कारणेन संस्कृतभाषा लोके व्यवहारभाषा अपि नैव भवेत् चेति अस्माकम् अनुभवजातं वास्तविकं परिणामदर्शिना भवता अपि ज्ञायते।

अद्यावधि वयं भारतीयमातृभाषाणां प्रौढसाहित्यिकसंस्कृतभाषायाः च मध्ये सोपानात्मकं किञ्चन सरलमानकसंस्कृतं व्यवहारे न आनीतवन्तः इति कारणेन एव संस्कृतभाषा व्यवहारभाषा शिक्षणमाध्यमभाषा वा न जाता अस्माकम् इच्छायां सत्यां प्रयत्ने च सत्यपि। (सरलमानकसंस्कृतम् इत्यत्र मानकपदं भाषाशुद्धत्वस्य पाणिनीयत्वस्य संस्कृतत्वस्य अखिलभारतीयत्वस्य च प्रतिपादकम् इति तत्र भवता ज्ञायते एव।) किञ्च, कस्यचिदपि लक्ष्यस्य क्रियान्वयनाय शैक्षिकव्यवस्थापरिवर्तनाय वा उद्देशानुगुणं केचन कार्यक्रमाः आवश्यकाः भवन्ति। ते च कार्यक्रमाः निरन्तरं कतिचन वर्षाणि यावत् सञ्चालनीयाः भवन्ति। तदा एव लक्ष्यपूर्तिः भवति।

यदा राष्ट्रियसंस्कृतपरिषदि 21-01-2016-तमे दिनाङ्के “दैनन्दिनव्यवहारे, शिक्षणे, वार्तामाध्यमेषु, मनोरञ्जने, अन्तर्जाले, संस्कृतसम्बद्धसंस्थानां प्रशासने, संस्कृतपत्रकारितायाम् एवञ्च अन्येषु तत्सम्बद्धविषयेषु सरलमानकसंस्कृतस्य उपयोगः भवेत्” इति निर्णयः कृतः आसीत् तदा तस्यां परिषदि सप्तदशानां संस्कृतविश्वविद्यालयानां कुलपतयः, एकादशानां संस्कृत-अकदमीनां निदेशकाः, अन्ये षट् संस्कृतविद्वांसः च राष्ट्रियसंस्कृतपरिषदः सदस्यरूपेण उपस्थिताः आसन्। ते सर्वे ऐकमत्येन तम् ऐतिहासिकं निर्णयं स्वीकृतवन्तः। परिषदा सरलमानकसंस्कृतस्य मार्गदर्शिकालेखनाय पञ्चानां विदुषां समितिः अपि रचिता आसीत् यस्यां चत्वारः कुलपतयः आसन्। श्री एन् गोपालस्वामिमहोदयस्य अध्यक्षतायाः समितेः संस्तुतिलेखनकार्ये अपि संस्कृतजगतः प्रमुखभूताः प्राध्यापकाः कुलपतयः च आसन् यस्यां संस्तुत्यां सरलमानकसंस्कृतस्य उपयोगस्य आवश्यकता अनिवार्यता च प्रदर्शिता। नूतनायां राष्ट्रियशिक्षानीतौ अपि संस्कृतमाध्यमेन पाठनाय सरलमानकसंस्कृतेन पाठ्यसामग्रीनिर्माणं करणीयम् इति सूचितम्। गतवर्षे सप्तदशसु सप्तभिः विश्वविद्यालयैः सरलमानकसंस्कृतस्य उपयोगाय आदेशः प्रकाशितः। एवं सरलमानकसंस्कृतेन सञ्चिकासु कागदेषु चैव एतावद्दूरयात्रायाः कृते एव षट् वर्षाणि स्वीकृतानि इति भवता ज्ञायते एव। एतेन वेगेन गम्येत चेत् भारते विद्यमानानां माकिं पञ्चलक्षपरिमितानां संस्कृतशिक्षकाणां मुखपर्यन्तं सरलमानकसंस्कृतस्य यात्रार्थं कति वर्षाणि आवश्यकानि स्युः इति भवता ऊहितुं शक्येत। येन वेगेन संस्कृतस्य ह्रासः जायमानः अस्ति तदनुगुणम् अस्माकं संस्कृतविकासयत्नानां वेगः अपि वर्धनीयः खलु ?

सर्वस्मिन् संस्कृतमहाविद्यालये विश्वविद्यालये वा प्राध्यापकेषु छात्रेषु च त्रिविधाः जनाः सन्ति – संस्कृतमेव न जानन्ति इति, संस्कृतेन भाषितुं समर्थाः परं भाषाशुद्धता नास्ति अथवा शुद्धतासम्पादनस्य आग्रहः नास्ति इति, व्युत्पन्नाः परं सरलसंस्कृतस्य प्रयोगस्य अभ्यासः नास्ति अथवा सरलसंस्कृतप्रयोगस्य आग्रहः नास्ति इति। परम् एते सर्वे संस्कृतप्रेमिणः, संस्कृतानुकूलाः, संस्कृतभाषाप्रचाराय किमपि मूल्यं दातुं सज्जाः च। अतः एतान् त्रिविधान् मनसि निधाय कार्ययोजना करणीया स्यात्।

इदानीं सरलमानकसंस्कृतस्य क्रियान्वयनस्य विषये अस्माभिः गम्भीरतया कार्यप्रवृत्तैः भवितव्यम्। तदर्थं तस्मिन् एव मार्गदर्शिकापुस्तके सरलमानकसंस्कृतस्य क्रियान्वयनविचारः इति शीर्षकयुक्ते तृतीये अध्याये सप्तसु क्रियान्वयनक्षेत्रेषु पञ्चविंशतिः उपायाः सूचिताः सन्ति। तेषु प्रत्येकम् अपि उपायः भवदीयेन विश्वविद्यालयेन अनुष्ठाने आनेतव्यः इति मम निवेदनम्। तत्र सूचितान् उपायान् अतिरिच्य अन्ये अपि बहवः उपायाः अनुष्ठेयाः सन्ति वर्तमानायां परिवृत्तशैक्षिकपरिस्थितौ। संस्कृतभाषायाः विकासविषये किञ्च सरलमानकसंस्कृतस्य व्यवहारे आनयनविषये उत्तरदायिभिः अस्माभिः परिणामकेन्द्रिता, समयबद्धा च कार्ययोजना अविलम्बम् एव करणीया इति मम साग्रहं सविनयं च निवेदनम्।

सरलमानकसंस्कृतस्य क्रियान्वयनस्य एतस्मिन् अत्यन्तं महत्त्वभूते शैक्षिककार्ये संस्कृतसंवर्धनप्रतिष्ठानस्य यः कोपि सहयोगः आवश्यकः चेत् कृपया सूच्यताम्।

भवदीयः संस्कृतसेवकः,
चमू कृष्णशास्त्री,
न्यासी सचिवः, संस्कृतसंवर्धनप्रतिष्ठानम्, नवदेहली, www.samskritpromotion.in
Twitter @ChamuKShastry Blog- chamuks.in YouTube – Chamu K Shastry


By :- Chamu Krishna Shastry | Views:- 3642 | 26-07-2021 10:48 PM