आत्मनिर्भरं संस्कृतम्

spf

मान्येन प्रधानमन्त्रिणा आत्मनिर्भरभारतम् इति यः विषयः उपस्थापितः तम् एव विचारं चिन्तयताम् अस्माकं मनसि संस्कृतविषये अपि समानाः विचाराः उत्पद्यन्ते। किं संस्कृतम् अद्य आत्मनिर्भरम् अस्ति? किम् आत्मनिर्भरं न भवेत्? प्रथमं किञ्चित् आत्मनिर्भरशब्दविषये स्पष्टीकरणम्। लोकभाषासु यस्मिन् अर्थे आत्मनिर्भरशब्दः प्रसिद्धः तस्मिन् अर्थे संस्कृतकोषेषु सः शब्दः नैव दृश्यते। विद्वद्भिः एषः अर्थः प्रदर्शितः – निःशेषेण भरः निर्भरः। आत्मनः निर्भरः यस्मिन् तत् आत्मनिर्भरम्। अन्यावलम्बनरहितम् इत्यर्थः। (निःशेषेण साकल्येन। भरणं भरः। भरणं नाम पूरणक्रिया निर्वहणक्रिया वा।) तात्पर्यार्थः अन्यावलम्बनरहितं संस्कृतम् इति। अत्र संस्कृतम् इत्यनेन संस्कृतभाषा शास्त्रादीनि संस्कृतशिक्षा संस्कृतशिक्षणसंस्थाः प्रचारसंघसंस्थाः संस्कृतज्ञाः च सर्वे गृह्यन्ते। एतेषाम् अन्यावलम्बनरहितत्वम् अर्थात् स्वावलम्बनं कथं स्यात् इति परिस्थितिज्ञैः कालोचितकर्तव्यज्ञैः सौपानिकपदनिक्षेपज्ञैः संस्कृतज्ञैः अवश्यं चिन्तनीयम्।

विधर्मीयाणां शासनकालं विहाय अन्यदा सदैव संस्कृतस्य संस्कृतपण्डितानां च राजाश्रयः आसीत्। केवलं राजाश्रयः न अपि तु समाजाश्रयः अपि आसीत् इति कारणेन संस्कृतपरम्परा अखण्डा आसीत्। परं ब्रिटिशशासनस्य परिणामतः तद् आश्रयद्वयम् अपि नष्टम्। अत्र स्थलाभावतः एषः विषयः न विशदीक्रियते। नष्टस्य नश्यमानस्य वा राजाश्रयस्य प्राप्त्यर्थं संस्कृतज्ञानां सुदीर्घकालस्य तदेकचित्तप्रयासानां कारणेन संस्कृतज्ञानां चिन्तनम् अद्य राजाश्रयं विना अन्यद् चिन्तयितुम् अपि न शक्नोति इति स्थितिः अभवत् तथा च विविधकारणैः स्वल्पमात्रेण दीनता, याचनशीलता, पराजितमानसिकता च संस्कृतजगति प्रविष्टा। हीनतावृतमानसैः दुःखोपहतजनैः किमपि श्रेष्ठं कार्यं साधयितुं न शक्येत।

वर्तमानां परिस्थितिम् अवगच्छेम। सप्तमवेतनायोगसंस्तुतेः स्वीकारानन्तरं राज्यसर्वकाराणां समीपे शिक्षकवेतनदानाय धनं नास्ति इत्यतः इतःपरम् अपेक्षितरीत्या न संस्कृतशिक्षकनियुक्तिः भविष्यति न वा संस्कृत-विद्यालय-महाविद्यालय-विश्वविद्यालयानां संवर्धनं भविष्यति। केन्द्रसर्वकारेण तु संस्कृताय त्रयः केन्द्रीयविश्वविद्यालयाः प्रदत्ताः इति एतेन एकेन कार्येण एव केन्द्रसर्वकारस्य संस्कृताय स्वकर्तव्यता परिसमाप्ता। कोरोनाकारणेन केन्द्रस्य राज्यानां वा सर्वकाराणां समीपे अग्रिमेषु 5-10 वर्षेषु संस्कृताय धनं न भविष्यति। एतत् अप्रियं कठोरं च सत्यम् अस्माभिः धैर्येण स्वीकरणीयम्। न स्वीक्रियते चेत् अन्यः एकः एव पर्यायः यत् रोदनं कुर्वद्भिः कालः यापनीयः इति। सत्यस्य अवगमनेन वयं न भीताः स्याम न वा हतोत्साहाः। अपि तु प्रकृतोपयुक्तकृतिज्ञाः स्याम। वयं तु जित्वराः। जगत् जयेम च।

एवं तर्हि संस्कृतम् आत्मनिर्भरं कथं स्यात्? कार्याकार्यविवेकज्ञानां भवतां विचारार्थं केचन बिन्दवः –

1. सर्वकारेभ्यः प्राप्तव्यं प्राप्तुं प्रयत्नं तु कुर्मः एव। परन्तु राजाश्रयस्य स्थाने समाजाश्रयस्य विषये अधिकम् अवधानं कुर्याम चेत् संस्कृतरथः अग्रे गच्छेत्। नो चेत् नातिदूरे रथः यदा कदापि स्थगितः भवेत्।
2. यदि सर्वकारस्य चिन्तनं विश्वविद्यालयाः स्ववित्तपोषिताः स्युः इति अस्ति तर्हि तत् स्पर्धाह्वानं किमर्थं परकृपानिरभिलाषाः वयं न स्वीकुर्याम, प्रयत्नं तु कुर्मः। अन्यथा अपि इदानीम् अनुदानसंश्रितानां विद्यालयानां दिनगणना एव गतिः खलु।
3. एतावत् पर्यन्तं संस्कृतस्य विद्यालयाः महाविद्यालयाः विश्वविद्यालयाः च प्रधानतया 10-25 वयसां छात्राणां शिक्षणं कुर्वन्ति स्म। तथा च पारम्परिकान् प्रसिद्धान् विषयान् एव पाठयन्ति स्म। इदानीम् एतस्मात् परिधिद्वयात् बहिः गत्वा चिन्तनं करणीयम्। समाजस्य सर्वेषाम् (अर्थात् बालानां प्रौढानां चेति) शिक्षणं तथा च बहूनां नूतनविषयाणां पाठ्यक्रमाणां शिक्षणम् इति द्विधा क्षेत्रविस्तारः कर्तव्यः येन धनस्य आयः अपि वर्धेत। अत्र अनूह्यपरिमाणेन लाभस्य सुमहती संभवना अस्ति। अत्र उद्देशे एव परिवर्तनम् अस्ति। तथैव पद्धतौ अपि परिवर्तनं स्यात्।
4. शिक्षकः पुरोहितः ज्योतिषिकः इति केवलं वृत्तित्रयाय पाठ्यक्रमापेक्षया नूतनानां बह्वीनां वृत्तीनां (आजीविकानां) कृते संस्कृतच्छात्राणां सज्जीकरणाय नूतनाः बहवः शास्त्रि-आचार्यादि-पाठ्यक्रमाः आरब्धव्याः। न्यूनातिन्यूनं दश एतादृशाः पाठ्यक्रमाः तत्क्षणं भवितुम् अर्हन्ति इतरविषयकाणां महाविद्यालयानां सहभागित्वेन।
5. प्राक्शास्त्री शास्त्री इति कक्ष्ययोः आहत्य पञ्चवर्षाणि संस्कृतं सुष्ठु अधीत्य व्युत्पन्नः भूत्वा (तथा प्रत्येकं छात्रस्य शिक्षणस्य उत्तरदायित्वम् अस्माकं स्यात्) पश्चात् सः आधुनिकशिक्षणधारायां गन्तुम् अपि अर्हति इति यदि व्यवस्था क्रियेत तर्हि प्राक्शास्त्रिशास्त्रिकक्ष्यासु छात्रसंख्या वर्धेत यतः तदा आजीविकावसराः विपुलाः भविष्यन्ति। तेषु छात्रेषु केचन आचार्यकक्ष्यां प्रविशेयुः एव, आहत्य इदानीन्तनसङ्ख्यायाः अपेक्षया अधिका सङ्खया एव स्यात्। एतां नवव्यवस्थां मनसा स्वीकर्तुं संस्कृतज्ञानां महत् धैर्यम् आवश्यकम्।
6. संस्कृतशिक्षायां छात्रसङ्ख्या शैक्षिकगुणवत्ता इति एतयोः मध्ये सङ्ख्यायाः निमित्तं गुणस्य बलिदानं कृतम्। संस्कृतस्य ह्रासे एतदपि किञ्चन मुख्यं कारणम्। अद्यतने स्पर्धात्मके अर्थात्मके वाणिज्यप्रभाविते जगति संस्कृतेन स्वाभिमानेन स्वावलम्बनेन च जीवनीयं चेत् गुणाय प्राथमिकत्वं देयम्। तेन किञ्चित्कालं यावत् सङ्ख्या बाधिता भवेत्। बाधतां नाम। चिन्ता न कार्या। धैर्यं करणीयम्।
7. संस्कृतं किमर्थम् इति वयम् अद्य पर्यन्तं यान् तर्कान् उक्तवन्तः तैः अग्रे कार्यं न प्रचलेत्। संस्कृतस्य आन्वयिकपक्षान् स्वीकृत्य तत्सम्बन्धे किञ्चित् कार्यं कृत्वा यदि प्रदर्श्येत, अभिनवाः प्रयोगाः क्रियेरन्, नवानि संशोधनानि च क्रियेरन् तर्हि संस्कृतेन शिक्षणे स्वीयं स्थानं रक्ष्येत। अन्यथा विद्यमानम् अपि नश्येत्।

वयं बहुधा अतीतं वदामः, अतीतं चिन्तयामः, अतीतं वैभवीकुर्मः, अतीते एव कालं यापयामः च। तेन प्रकृतं लाभः नास्ति। जगत् अग्रे गतम् अस्ति। जनाः प्रकृतं भविष्यं च इच्छन्ति। अतः अस्माभिः अपि भविष्यं पश्यद्भिः वर्तमाने कार्यं करणीयम्।

शासनकृपायाः कालः परिसमाप्तः। इतःपरं संस्कृतेन, अर्थात् संस्कृतज्ञैः स्वीयेन सत्त्वेन यत्किमपि अर्जनीयं भविष्यति। स्पर्धा स्वीकरणीया। आत्मनिर्भरता अङ्गीकरणीया। स्वाभिमानिता, शक्तता, सङ्घटितता, आर्थिकस्वयंपूर्णता, गुणात्मकता इत्यादयः गुणाः संस्कृतज्ञानां नूतनानि अभिज्ञानचिह्नानि भवेयुः। परमुखप्रेक्षी मा भूः इति प्रेरकगीतपङ्क्तिं स्मरेम। इदानीं प्राक्शास्त्रिकक्ष्यातः शोधकार्यपर्यन्तं संस्कृतच्छात्राः ये सन्ति ते अस्मत्पुत्रकाः खलु। अग्रिमदशवर्षेषु यथा यथा ते पठित्वा विश्वविद्यालयेभ्यः बहिः आगच्छेय़ुः तथा तथा तेभ्यः आजीविकां कथं दद्याम इति विषये अद्य आरभ्य गम्भीरतया चिन्तयेम। तदेव आत्मनिर्भरसंस्कृतस्य प्रथमं स्पर्धाह्वानम्। निजसत्त्वसञ्चालिताः वयं सर्वे संस्कृतप्राध्यापकाः उत्तरदायिनः स्याम।
(*** चित्रग्राहकः – डा. प्रसाद कैपः, क्यालिफोर्निया, अमेरिका)


By :- Chamu Krishna Shastry | Views:- 3846 | 30-05-2020 09:37 PM